Search engine for discovering works of Art, research articles, and books related to Art and Culture
ShareThis
Javascript must be enabled to continue!

रत्नावलीनाटिकायाः काव्यसौन्दर्यसमीक्षणम्

View through CrossRef
महाकविर्हर्षवद्र्धनविरचिता चतुःसङ्ख्यकेष्वङ्केषु विभक्ता ‘रत्नावली’ नाटिका विश्वसंस्कृतसाहित्ये सुपरिचिता वर्तते । अनेकै रसभावादिभिः समलङ्कृतायामस्यां नाटिकायां काव्यसौन्दर्यवर्धकानां रसोऽलङ्कारछन्दसाम्, सूक्तेश्च कमनीयं सौन्दर्यं चकास्ति । एतादृशैः साहित्यिकसौन्दयैर्नाटकमिदं देदीप्यमानं प्रतीयते, पठनेन भावकानां मन आह्लादयति । तादृशस्य वैशिष्ट्यपूर्णस्य प्रस्तुतनाटकस्य साहित्यिकसौन्दर्यविश्लेषणकेन्द्रिते प्रकृते लेखेऽत्र समुपलब्धानां काव्यतत्त्वानां समीक्षा विहिताऽस्ति । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतसा प्राप्तानां सामग्रीणां संयोजनं वर्तते । रत्नावली स्वगुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धतिमाश्रित्य रचितमिदं रूपकं दशरूपके प्रसिद्धं वर्तते । रत्नावली दृश्यकाव्यदृष्ट्याऽभिनन्दनीया वर्तते । अत्रार्थप्रकृतयः, कार्यावस्थाः, सन्धयश्च वस्तुविन्यासस्यसाधनानि सन्ति । उदयनरत्नावल्योर्विवाहसम्पादनमेवास्य रूपकस्य प्रमुखमुद्देश्यमस्ति । अस्मिन्लेखे रत्नावल्यां कथावस्तुप्रयोगः, चरित्रचित्रणकौशलम्, अलङ्काररसादीनां प्रयोगस्थितिविषये विवेचनं कृतमस्ति । रसालङ्कारादिप्रयोगदृष्ट्या काव्यमिदं सफलं संलक्ष्यते । वस्तुरसालङ्कारध्वनि–गुणसूक्त्यादीनां कमनीयत्वमस्य नाटकस्य महनीयं सौन्दर्यं वर्तते ।
Title: रत्नावलीनाटिकायाः काव्यसौन्दर्यसमीक्षणम्
Description:
महाकविर्हर्षवद्र्धनविरचिता चतुःसङ्ख्यकेष्वङ्केषु विभक्ता ‘रत्नावली’ नाटिका विश्वसंस्कृतसाहित्ये सुपरिचिता वर्तते । अनेकै रसभावादिभिः समलङ्कृतायामस्यां नाटिकायां काव्यसौन्दर्यवर्धकानां रसोऽलङ्कारछन्दसाम्, सूक्तेश्च कमनीयं सौन्दर्यं चकास्ति । एतादृशैः साहित्यिकसौन्दयैर्नाटकमिदं देदीप्यमानं प्रतीयते, पठनेन भावकानां मन आह्लादयति । तादृशस्य वैशिष्ट्यपूर्णस्य प्रस्तुतनाटकस्य साहित्यिकसौन्दर्यविश्लेषणकेन्द्रिते प्रकृते लेखेऽत्र समुपलब्धानां काव्यतत्त्वानां समीक्षा विहिताऽस्ति । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतसा प्राप्तानां सामग्रीणां संयोजनं वर्तते । रत्नावली स्वगुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धतिमाश्रित्य रचितमिदं रूपकं दशरूपके प्रसिद्धं वर्तते । रत्नावली दृश्यकाव्यदृष्ट्याऽभिनन्दनीया वर्तते । अत्रार्थप्रकृतयः, कार्यावस्थाः, सन्धयश्च वस्तुविन्यासस्यसाधनानि सन्ति । उदयनरत्नावल्योर्विवाहसम्पादनमेवास्य रूपकस्य प्रमुखमुद्देश्यमस्ति । अस्मिन्लेखे रत्नावल्यां कथावस्तुप्रयोगः, चरित्रचित्रणकौशलम्, अलङ्काररसादीनां प्रयोगस्थितिविषये विवेचनं कृतमस्ति । रसालङ्कारादिप्रयोगदृष्ट्या काव्यमिदं सफलं संलक्ष्यते । वस्तुरसालङ्कारध्वनि–गुणसूक्त्यादीनां कमनीयत्वमस्य नाटकस्य महनीयं सौन्दर्यं वर्तते ।.

Back to Top