Search engine for discovering works of Art, research articles, and books related to Art and Culture
ShareThis
Javascript must be enabled to continue!

संस्कृतव्याकरणे मुनित्रयावदानसमीक्षणम्

View through CrossRef
संस्कृतव्याकरणशास्त्रस्य सुदीर्घपरम्परा विद्यते । सामान्यविषयादारभ्य सूक्ष्मविषयपर्यन्तं व्याकरणशास्त्रस्य प्रभावो  दृश्यते । ध्वनिवर्णरूपपदपदावलिवाक्यांशादिविवेचनपक्षतः दार्शनिकचिन्तन-पर्यन्तं व्याकरणशास्त्रं करोति । भाषायाः परापश्यन्तिमध्यमाव्यक्तवाणीतः व्यक्तवैखरीवाणीपर्यन्तं व्याकरणशास्त्रस्य चिन्तनं विद्यते । भाषणाय भाषापरिष्काराय च संस्कृतव्याकरणस्य महती भूमिका दृश्यते । संसारे प्रवृत्तानां सर्वासामपि विद्यानाम्मूलं परमेश्वरोपदिष्टो वेद एवास्ति । व्याकरणं वेदस्य षट्स्वङ्गेषु मुखमस्ति । तेन श्रुतिस्मृतिपुराणादिषु व्याकरणस्य प्राधान्यं दृश्यत एव ।  पुरावृत्तोत्खनने तु संस्कृत-व्याकरणाध्ययनकार्ये विधातुः नाम सर्वादौ आयाति । कालान्तरे जगति पाणिनिकात्यायनपतञ्जलीनां नाम त्रिमुनीति समूहवाचकत्वेनायाति । आदौ बहुविदुषां अवदानं संस्कृतव्याकरणे अवश्यमेवास्ति । पुरा विद्वद्भिः संस्कृतव्याकरणाशास्त्रस्य अध्ययनाध्यापनसंस्कारस्य स्थापना कृता । तस्य संस्कारस्य प्रवर्धन-संवधर्नन-परिष्कारादिकार्ये पाणिनि-कात्यायन-पतञ्जलीनामेव महत्प्रयासः सञ्जातः येन संस्कृत-व्याकरणाशास्त्रं समृद्घमद्यपर्यन्तमस्ति । लघुसूत्रस्यप्रारम्भाद् गम्भीर-व्याख्यापर्यन्तं संस्कृतव्याकरणस्य व्रज्या गता । पाणिनिना महता प्रयासेन महेश्वरप्रसादात् चतुर्दश सूत्राणि लब्धानि ततः अष्टाध्यायीति नाम्नः सूत्रग्रन्थस्य निर्मितिपश्चात् कात्यायनेन वार्तिकरचना कृता । एवं रीत्या सूत्रप्रणयनेन वार्तिकप्रणयनेन च संस्कृतव्याकरणबोधे अपेक्षितसारल्याभावात् सूत्राणां सुष्ठुतया परिष्काराय नैकविधमतमतान्तरगम्भीरमन्थनपूर्वकं विश्लेषणाय च पतञ्जलिना महाभाष्यं प्रणीतम् । अनया रीत्या उत्तरोत्तरं व्याकरणाशास्त्रस्य नाव्यं रूपं समागतम् । अष्टाध्यायी-पाणिनीयशिक्षा-जाम्बवतीविजय-द्विरूपकोश-धातुपाठ-गणपाठ-उणादिसूत्रपाठ-लिङ्गानुशासनम्-अष्टाध्यायी-स्वोपज्ञवृत्तिप्रभृतयः ग्रन्थाः पाणिनिना विरचिताः । वार्त्तिकलेखनमेव कात्यायनस्य महत्कार्यमस्ति । पाणिनिसूत्राणां वार्तिकनेन अनेन विवेचनं कृतम् । पाणनीयसूत्राण्याधारीकृत्य रचितं वार्त्तिकपाठात्मकस्वरूपमेव महत्त्वपूर्णमस्ति । युधिष्ठिरमीमांशकानुसारं कात्यायनस्य समग्रवार्त्तिकग्रन्थ नोपलभ्यत इति ज्ञायते । तथैव पतञ्जलिना पाणिनीयसूत्राणां उत्कृष्टा व्यवहारोपयोगिनी व्याख्या कृता सा संस्कृतजगति महाभाष्येति नाम्ना प्रसिद्घा विद्यते । तत्र सतर्कं सोदाहरणं पाणिनीयसूत्राणां प्रत्येकपदानां विवेचनं कृतं वर्तते । निदानसूत्रम्, योगदर्शनम् महाभाष्यञ्चेति पतञ्जलेः मुख्यग्रन्थाः सन्ति । युधिष्ठिरानुसन्धानात्मकग्रन्धानुसारं महानन्दमिति महाकाव्यञ्चानेन लिखितमिति प्राप्यते । बालतः वृद्घपर्यन्तं मनुजानां कृते सामान्यतः दर्शनपर्यन्तविषयस्य ज्ञानं मुनित्रयस्य व्याकरणावदाने लब्धम् । लेखेऽस्मिन् मुनित्रयस्य संस्कृतव्याकरणे कृतावदानस्य समीक्षा कृता वर्तते ।  प्रस्तुतानुसन्धानकार्यं विश्लेषणात्मकविधिना सम्पादितमस्ति । संस्कृतव्याकरणे मुनित्रयस्यावदानं ज्ञात्वा समीक्षणमेवास्य लेखस्योद्देश्यं वर्तते ।
Title: संस्कृतव्याकरणे मुनित्रयावदानसमीक्षणम्
Description:
संस्कृतव्याकरणशास्त्रस्य सुदीर्घपरम्परा विद्यते । सामान्यविषयादारभ्य सूक्ष्मविषयपर्यन्तं व्याकरणशास्त्रस्य प्रभावो  दृश्यते । ध्वनिवर्णरूपपदपदावलिवाक्यांशादिविवेचनपक्षतः दार्शनिकचिन्तन-पर्यन्तं व्याकरणशास्त्रं करोति । भाषायाः परापश्यन्तिमध्यमाव्यक्तवाणीतः व्यक्तवैखरीवाणीपर्यन्तं व्याकरणशास्त्रस्य चिन्तनं विद्यते । भाषणाय भाषापरिष्काराय च संस्कृतव्याकरणस्य महती भूमिका दृश्यते । संसारे प्रवृत्तानां सर्वासामपि विद्यानाम्मूलं परमेश्वरोपदिष्टो वेद एवास्ति । व्याकरणं वेदस्य षट्स्वङ्गेषु मुखमस्ति । तेन श्रुतिस्मृतिपुराणादिषु व्याकरणस्य प्राधान्यं दृश्यत एव ।  पुरावृत्तोत्खनने तु संस्कृत-व्याकरणाध्ययनकार्ये विधातुः नाम सर्वादौ आयाति । कालान्तरे जगति पाणिनिकात्यायनपतञ्जलीनां नाम त्रिमुनीति समूहवाचकत्वेनायाति । आदौ बहुविदुषां अवदानं संस्कृतव्याकरणे अवश्यमेवास्ति । पुरा विद्वद्भिः संस्कृतव्याकरणाशास्त्रस्य अध्ययनाध्यापनसंस्कारस्य स्थापना कृता । तस्य संस्कारस्य प्रवर्धन-संवधर्नन-परिष्कारादिकार्ये पाणिनि-कात्यायन-पतञ्जलीनामेव महत्प्रयासः सञ्जातः येन संस्कृत-व्याकरणाशास्त्रं समृद्घमद्यपर्यन्तमस्ति । लघुसूत्रस्यप्रारम्भाद् गम्भीर-व्याख्यापर्यन्तं संस्कृतव्याकरणस्य व्रज्या गता । पाणिनिना महता प्रयासेन महेश्वरप्रसादात् चतुर्दश सूत्राणि लब्धानि ततः अष्टाध्यायीति नाम्नः सूत्रग्रन्थस्य निर्मितिपश्चात् कात्यायनेन वार्तिकरचना कृता । एवं रीत्या सूत्रप्रणयनेन वार्तिकप्रणयनेन च संस्कृतव्याकरणबोधे अपेक्षितसारल्याभावात् सूत्राणां सुष्ठुतया परिष्काराय नैकविधमतमतान्तरगम्भीरमन्थनपूर्वकं विश्लेषणाय च पतञ्जलिना महाभाष्यं प्रणीतम् । अनया रीत्या उत्तरोत्तरं व्याकरणाशास्त्रस्य नाव्यं रूपं समागतम् । अष्टाध्यायी-पाणिनीयशिक्षा-जाम्बवतीविजय-द्विरूपकोश-धातुपाठ-गणपाठ-उणादिसूत्रपाठ-लिङ्गानुशासनम्-अष्टाध्यायी-स्वोपज्ञवृत्तिप्रभृतयः ग्रन्थाः पाणिनिना विरचिताः । वार्त्तिकलेखनमेव कात्यायनस्य महत्कार्यमस्ति । पाणिनिसूत्राणां वार्तिकनेन अनेन विवेचनं कृतम् । पाणनीयसूत्राण्याधारीकृत्य रचितं वार्त्तिकपाठात्मकस्वरूपमेव महत्त्वपूर्णमस्ति । युधिष्ठिरमीमांशकानुसारं कात्यायनस्य समग्रवार्त्तिकग्रन्थ नोपलभ्यत इति ज्ञायते । तथैव पतञ्जलिना पाणिनीयसूत्राणां उत्कृष्टा व्यवहारोपयोगिनी व्याख्या कृता सा संस्कृतजगति महाभाष्येति नाम्ना प्रसिद्घा विद्यते । तत्र सतर्कं सोदाहरणं पाणिनीयसूत्राणां प्रत्येकपदानां विवेचनं कृतं वर्तते । निदानसूत्रम्, योगदर्शनम् महाभाष्यञ्चेति पतञ्जलेः मुख्यग्रन्थाः सन्ति । युधिष्ठिरानुसन्धानात्मकग्रन्धानुसारं महानन्दमिति महाकाव्यञ्चानेन लिखितमिति प्राप्यते । बालतः वृद्घपर्यन्तं मनुजानां कृते सामान्यतः दर्शनपर्यन्तविषयस्य ज्ञानं मुनित्रयस्य व्याकरणावदाने लब्धम् । लेखेऽस्मिन् मुनित्रयस्य संस्कृतव्याकरणे कृतावदानस्य समीक्षा कृता वर्तते ।  प्रस्तुतानुसन्धानकार्यं विश्लेषणात्मकविधिना सम्पादितमस्ति । संस्कृतव्याकरणे मुनित्रयस्यावदानं ज्ञात्वा समीक्षणमेवास्य लेखस्योद्देश्यं वर्तते ।.

Back to Top