Search engine for discovering works of Art, research articles, and books related to Art and Culture
ShareThis
Javascript must be enabled to continue!

धात्वर्थे कौण्डभट्टमतपरिशीलनम्

View through CrossRef
इति विषये विदुषां महान् मतभेदो दृश्यते । पदवाक्यप्रमाणज्ञाः विशेषेणेह विवदन्ते गभीरम् । सर्वेऽपि स्वसिद्धान्तानुरूपं स्वाभिमतमगदन् । इह केचन फलं धात्वर्थाे व्यापारः प्रत्ययार्थ इति ब्रुवन्ति चेत् फलमात्रं धात्वर्थ आख्यातार्थाे भावना चान्ये । फलव्यापारौ धात्वर्थौ आख्यातार्थाे भावना इति केषाञ्चनानां मतम् । व्यापारमात्रस्य धात्वर्थत्वं फलञ्च प्रत्ययार्थ इति चानेके । फलव्यापारयोर्धात्वर्थत्वे कृतिराख्यातार्थ इत्युद्घोषयन्ति पुनरिह केचन । परञ्च वैयाकरणनयस्तु कश्चिद् भिन्न एव । स्वग्रन्थे भूषणसारे कौण्डभट्ट अवादीत् यत् फलव्यापारौ धातुवाच्यौ भवतः । आख्यातार्थश्चकर्तृकर्मसंख्याकालाः चत्वारः । कर्ताकर्मणी फलव्यापारयोराश्रयत्वेन वर्तेते । व्यापाराश्रयः कर्ता, फलाश्रयं कर्म इति । शाब्दबोधोपक्रमे कर्तृकर्मणी फलव्यापारयो–राधाराधेयभावेन विशेषेणे भवतः । तत्राख्यातार्थकर्तुः चैत्रादिनाऽभेदेनान्वयः, फलञ्चानुकूलत्वसम्बन्धेन व्यापारे विशेषणम् । यद्यपि “प्रकृतिप्रत्ययार्थाै सहार्थं ब्रुतस्तयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति नियमस्तथापि “भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि” इति निरुक्तोक्तेव्र्यापार–मुख्यविशेष्यक–श्शाब्दबोध इति । कौण्डभट्टो धात्वर्थविषये एकवृन्तगतफलन्यायेन फलनिरुपिता व्यापार–निरूपिता च खण्डशः शक्तिं स्वीकरोति । नागेशस्तु फलविशिष्टे व्यापारे, व्यापारविशिष्टे फले शक्तिं स्वीकरोति ।शाब्दबोधश्च कर्तृप्रत्यये व्यापारमुख्यविशेष्यकः, कर्मप्रत्यये फलमुख्यविशेष्यको भवति ।
Title: धात्वर्थे कौण्डभट्टमतपरिशीलनम्
Description:
इति विषये विदुषां महान् मतभेदो दृश्यते । पदवाक्यप्रमाणज्ञाः विशेषेणेह विवदन्ते गभीरम् । सर्वेऽपि स्वसिद्धान्तानुरूपं स्वाभिमतमगदन् । इह केचन फलं धात्वर्थाे व्यापारः प्रत्ययार्थ इति ब्रुवन्ति चेत् फलमात्रं धात्वर्थ आख्यातार्थाे भावना चान्ये । फलव्यापारौ धात्वर्थौ आख्यातार्थाे भावना इति केषाञ्चनानां मतम् । व्यापारमात्रस्य धात्वर्थत्वं फलञ्च प्रत्ययार्थ इति चानेके । फलव्यापारयोर्धात्वर्थत्वे कृतिराख्यातार्थ इत्युद्घोषयन्ति पुनरिह केचन । परञ्च वैयाकरणनयस्तु कश्चिद् भिन्न एव । स्वग्रन्थे भूषणसारे कौण्डभट्ट अवादीत् यत् फलव्यापारौ धातुवाच्यौ भवतः । आख्यातार्थश्चकर्तृकर्मसंख्याकालाः चत्वारः । कर्ताकर्मणी फलव्यापारयोराश्रयत्वेन वर्तेते । व्यापाराश्रयः कर्ता, फलाश्रयं कर्म इति । शाब्दबोधोपक्रमे कर्तृकर्मणी फलव्यापारयो–राधाराधेयभावेन विशेषेणे भवतः । तत्राख्यातार्थकर्तुः चैत्रादिनाऽभेदेनान्वयः, फलञ्चानुकूलत्वसम्बन्धेन व्यापारे विशेषणम् । यद्यपि “प्रकृतिप्रत्ययार्थाै सहार्थं ब्रुतस्तयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति नियमस्तथापि “भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि” इति निरुक्तोक्तेव्र्यापार–मुख्यविशेष्यक–श्शाब्दबोध इति । कौण्डभट्टो धात्वर्थविषये एकवृन्तगतफलन्यायेन फलनिरुपिता व्यापार–निरूपिता च खण्डशः शक्तिं स्वीकरोति । नागेशस्तु फलविशिष्टे व्यापारे, व्यापारविशिष्टे फले शक्तिं स्वीकरोति ।शाब्दबोधश्च कर्तृप्रत्यये व्यापारमुख्यविशेष्यकः, कर्मप्रत्यये फलमुख्यविशेष्यको भवति ।.

Back to Top